We bring you the 10th chapter of Chanakya Neeti as we continue our series of providing original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.
Chanakya Neeti Slokas in Sanskrit: Chapter 10
Sloka 1: धनहीनो न च हीनश्च धनिक स सुनिश्चयः।
विद्या रत्नेन हीनो यः स हीनः सर्ववस्तुषु।।
Sloka 2: दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिवेत्।
शास्त्रपूतं वदेद् वाक्यं मनः पूतं समाचरेत्।।
Sloka 3: सुखार्थी चेत् त्यजेद्विद्यां त्यजेद्विद्यां विद्यार्थी चेत् त्यजेत्सुखम्।
सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम्।।
Sloka 4: कवयः किं न पश्यन्ति किं न कुर्वन्ति योषितः।
मद्यपा किं न जल्पन्ति किं न खादन्ति वायसाः।।
Sloka 5: रङ्कं करोति राजानं राजानं रङ्कमेव च।
धनिनं निर्धनं चैव निर्धनं धनिनं विधिः।।
Sloka 6: लुब्धानां याचकः शत्रुर्मूर्खाणां बोधकः रिपुः।
जारस्त्रीणां पतिः शत्रुश्चौराणां चन्द्रमा रिपुः।।
Sloka 7: येषां न विद्या न तपो न दानं
न चापि शीलं च गुणो न धर्मः।
ते मर्त्यलोके भुवि भारभूता
मनुष्यरुपेण मृगाश्चरन्ति।।
Sloka 8: अन्तःसार विहीनानामुपदेशो न जायते।
मलयाचलसङ्गसर्गात् न वेणुश्चन्दनायते।।
Sloka 9: यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति।।
Sloka 10: दुर्जनं सज्जनं कर्तुमुपायो न हि भूतले।
अपानं शतघा धौतं न श्रेष्ठमिन्द्रियं भवेत्।।
Sloka 11: आप्तद्वेषाद् भवेन्मृत्युः परद्वेषात्तु धनक्षयः।
राजद्वेषाद् भवेन्नाशो ब्रह्मद्वेषात्कुलक्षयः।।
Sloka 12: वरं वनं व्याघ्रगजेन्द्रसेवितं
द्रुमालयः पत्रफलाम्बु सेवनम्।
तृणेशु शय्या शतजीर्णवल्कलं
न बन्धुमध्ये धनहीनजीवनम्।।
Sloka 13: विप्रो वृक्षस्तस्य मूलं सन्ध्या
वेदाः शास्त्रा धर्मकर्माणि पत्रम्।
तस्मान्मूलं यत्नतो रक्षणीयं
छिन्ने मूले नैव शाखा न पत्रम्।।
Sloka 14: माता च कमला देवी पिता देवो जनार्दनः।
बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम्।।
Sloka 15: एक वृक्षे समारूढा नानावर्णविहङ्गमाः।
प्रभाते दिक्षु गच्छन्ति तत्र का परिवेदना।।
Sloka 16: बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम्।
वने सिंहो मदोन्मत्तः शशकेन निपातितः।।
Sloka 17: का चिन्ता मम जीवने यदि हरिर्विश्वम्भरो गीयते
नो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्मयेत्।
Sloka 18: इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं
त्वत्पादाम्बुजसेवनेन सततं कालो मया नीयते।।
Sloka 19: गीर्वाणवाणीषु विशिष्टबुद्धि
स्तथाऽपि भाषान्तर लोलुपोऽहम्।
यथा सुरगणेष्वमृते च सेविते
स्वर्गांगनानामधरासवे रुचिः।।
Sloka 20: अन्नाद् दशगुणं पिष्टं पिष्टाद् दशगुणं पयः।
पयसोऽष्ट गुणं मांसं मांसाद् दशगुणं घृतम्।।
Sloka 21: शोकेन रोगाः वर्धन्ते पयसा वर्धते तनुः।
घृतेन वर्धते वीर्य मांसान्मांसं प्रवर्धते।।