We bring you the 11th chapter of Chanakya Neeti as we continue our series of providing original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.
Chanakya Neeti Slokas in Sanskrit: Chapter 13
Sloka 1: मुहुर्तमपि जीवेच्च नरः शुक्लेन कर्मणा।
न कल्पमपि कष्टेन लोक द्वय विरोधिना।।
Sloka 2: गतं शोको न कर्तव्यं भविष्यं नैव चिन्तयेत्।
वर्तमानेन कालेन प्रवर्तन्ते विचक्षणाः।।
Sloka 3: स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषाः पिताः।
ज्ञातयः स्नानपानाभ्यां वाक्यदानेन पण्डिताः।।
Sloka 4: अहो स्वित् विचित्राणि चरितानि महात्मनाम्।
लक्ष्मीं तृणाय मन्यन्ते तद्भरेण नमन्ति च।।
Sloka 5: यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम्।
स्नेहमूलानि दुःखानि तानि त्यक्तवा वसेत्सुखम्।।
Sloka 6: अनागत विधाता च प्रत्युत्पन्नगतिस्तथा।
द्वावातौ सुखमेवेते यद्भविष्यो विनश्यति।।
Sloka 7: राज्ञेधर्मणि धर्मिष्ठाः पापे पापाः समे समाः।
राजानमनुवर्तन्ते यथा राजा तथा प्रजाः।।
Sloka 8: जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम्।
मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः।।
Sloka 9: धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्वते।
अजागलस्तनस्येव तस्य जन्म निरर्थकम्।।
Sloka 10: दह्यमानां सुतीव्रेण नीचाः परयशोऽग्निना।
अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते।।
Sloka 11: बन्धन्य विषयासङ्गः मुक्त्यै निर्विषयं मनः।
मन एव मनुष्याणां कारणं बन्धमोक्षयोः।।
Sloka 12: देहाभिमानगलिते ज्ञानेन परमात्मनः।
यत्र यत्र मनो याति तत्र तत्र समाधयः।।
Sloka 13: ईप्सितं मनसः सर्वं कस्य सम्पद्यते सुखम्।
दैवायत्तं यतः सर्वं तस्मात् सन्तोषमाश्रयेत्।।
Sloka 14: यथा धेनु सहस्रेषु वत्सो गच्छति मातरम्।
तथा यच्च कृतं कर्म कर्तारमनुगच्छति।।
Sloka 15: अनवस्थितकायस्य न जने न वने सुखम्।
जनो दहति संसर्गाद् वनं सगविवर्जनात।।
Sloka 16: यथा खनित्वा खनित्रेण भूतले वारि विन्दति।
तथा गुरुगतां विद्यां शुश्रुषुरधिगच्छति।।
Sloka 17: कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणि।
तथापि सुधियाचार्यः सुविचार्येव कुर्वते।।
Sloka 18: एकाक्षरं प्रदातारं यो गुरुं नाभिवन्दते।
श्वानयोनि शतं भुक्तवा चाण्डालेष्वभिजायते।।
Sloka 19: युगान्ते प्रचलेन्मेरुः कल्पान्ते सप्त सागराः।
साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन।।