We bring you the 11th chapter of Chanakya Neeti as we continue our series of providing original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.
Chanakya Neeti Slokas in Sanskrit: Chapter 15
Sloka 1: यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।
तस्य ज्ञानेन मोक्षेण किं जटा भसमलेपनैः ।।
Sloka 2: एकमेवाक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् ।
पृथिव्यां नास्ति तद्द्रव्यं यद् दत्त्वा चाऽनृणी भवेत् ।।
Sloka 3: खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।
उपानामुखभङ्गो वा दूरतैव विसर्जनम् ।।
Sloka 4: कुचैलिनं दन्तमलोपधारिणं
बह्वाशिनं निष्ठुरभाषितं च ।
सूर्योदये चास्तमिते शयानं
विमुञ्चतेश्रीर्यदि चक्राणिः ।।
Sloka 5: त्यजन्ति मित्राणि धनैर्विहीनं
दाराश्च भृत्याश्च सुहृज्जनाश्च ।
तञ्चार्थवन्तं पुनराश्रयन्ते
ह्यर्थो हि लोके पुरुषस्य बन्धुः ।।
Sloka 6: अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति ।
प्राप्ते चैकादशे वर्षे समूलं तद् विनश्यति ।।
Sloka 7: अयुक्तस्वामिनो युक्तं युक्तं नीचस्य दूषणम् ।
अमृतं राहवे मृत्युर्विषं शङ्करभूषणम् ।।
Sloka 8: तद् भोजनं यद् द्विज भुक्तशेषं
तत्सौहृदं यत्क्रियते परस्मिन् ।
सा प्राज्ञता या न करोति पापं
दम्भं विना यः क्रियते स धर्मः ।।
Sloka 9: मणिर्लुण्ठति पादाग्रे काञ्चः शिरसि धार्यते ।
क्रयविक्रयवेलायां कायः काञ्चो मणिर्मणिः ।।
Sloka 10: अनन्तशास्त्रं बहुलाश्च विद्या
अल्पं च कालो बहुविघ्नता च ।
आसारभूतं तदुपासनीयं
हंसो यथा क्षीरमिवाम्बुमध्यात्।।
Sloka 11: दूरादागतं पथिश्रान्तं वृथा च गृहमागतं ।
अनर्चयित्वा यो भुङ्कते स वै चाण्डाल उच्यते ।।
Sloka 12: पठन्ति चतुरो वेदान् धर्मशास्त्राण्यनेकशः ।
आत्मानं नैव जानन्ति दर्वी पाकर सं यथा ।।
Sloka 13: धन्या द्विजमयीं नौका विपरीता भवार्णवे ।
तरन्त्यधोगता सर्वे उपस्थिता पतन्त्येव हि ।।
Sloka 14: अयममृतणनिधानं नायको औषधीनां
अमृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ।
भवति विगतरश्मिर्मण्डले प्राप्य भानोः
परसदननिविष्ट को न लघुत्वं याति ।।
Sloka 15: अलिरयं नलिनिदलमध्यमः
कमलिनीमरकन्दमदालसः ।
विधिवशात्प्रदेशमुपागतः
कुरजपुष्परसं बहु मन्यते ।।
Sloka 16: पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभोऽयेन रोषा
अबाल्याद्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे ।
गेहं मे छेदयन्ति प्रतिदिवसममाकान्त पूजानिमित्तात्
तस्मात् खिन्ना सदाऽहं द्विज कुलनिलयं नाथ युक्तं त्यजामि ।।
Sloka 17: बन्धनानि खलु सन्ति बहूनि
प्रेमरज्जुकृतबन्धनमन्यत् ।
दारुभेदनिपुणोऽपि षडंघ्रि
र्निष्क्रियो भवति पङ्कजकोशे ।।
Sloka 18: छिन्नोऽपि चन्दनतरुर्न जहाति गन्धं
वृद्धोऽपि वारणपतिर्न जहाति लीलानम् ।
यन्त्रार्पितो मधुरतां न जहार्ति चेक्षु
क्षणोऽपि न त्यजति शीलगुणान्कुलीनः ।।
Sloka 19: उर्ध्यां कोऽपि महीधरो लघुतरो दोर्म्यां धृतौ लीलया
तेन त्वं दिवि भूतले च सततं गोवर्धनो गीयसे ।
त्वां त्रैलोक्यधरं वहायि कुचयोरग्रेण नो गण्यते
किं वा केशव भाषणेन बहुना पुण्यं यशसा लभ्यते ।।