We bring you the 11th chapter of Chanakya Neeti as we continue our series of providing the original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon, and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.
Chanakya Neeti Slokas in Sanskrit: Chapter 16
Sloka 1: न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुः धर्मोऽपि नोपार्जितः ।
नारीपीनपयोधरयुगलं स्वप्नेऽपि नार्लिगितं
मातुः केवलमेव यौवनच्छेदकुठारो वयम् ।।
Sloka 2: जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृदये चिन्तयन्तयन्यं न स्त्रीणामेकतो रतिः ।।
Sloka 3: यो मोहयन्मन्यते मूढो रत्तेयं मयि कामिनी ।
स तस्य वशगो भूत्वा नृत्येत् क्रीडा शकुन्तवत् ।।
Sloka 4: कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तंगताः ।
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञप्रियः ।।
कः कालस्य न गोचरत्वमगमत् कोऽर्थो गतो गौरवम् ।
को वा दुर्जनदुर्गुणेषु पतितः क्षेमेण यातः पथि ।।
Sloka 5: न निर्मिता केन न दृष्टपूर्वा न श्रूयते हेममयी कुरङ्गी ।
तथाऽपि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ।।
Sloka 6: गुणैरुत्तमतां यान्ति नोच्चैरासनसंस्थितैः ।
प्रसादशिखरस्थोऽपि किं काको गरुडायते ।।
Sloka 7: गुणाः सर्वत्र पूज्यन्ते न महत्योऽपि सम्पदः ।
पूर्णेन्दु किं तथा वन्द्यो निष्कलङ्को यथा कुशः ।।
Sloka 8: परमोक्तगुणो यस्तु निर्गुणोऽपि गुणी भवेत् ।
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः ।।
Sloka 9: विवेकिनमनुप्राप्तो गुणो याति मनोज्ञताम् ।
सुतरां रत्नमाभाति चामीकरनियोजितम् ।।
Sloka 10: गुणं सर्वत्र तुल्योऽपि सीदत्येको निराश्रयः ।
अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ।।
Sloka 11: अतिक्लेशेन ये चार्थाः धर्मस्यातिक्रमेण तु ।
शत्रूणां प्रणिपातेन ते ह्यर्थाः न भवन्तु मे ।।
Sloka 12: किं तया क्रियते लक्ष्मया या वधूरिव केवला ।
या तु वेश्यैव सामान्यपथिकैरपि भुज्यते ।।
Sloka 13: धनेषु जीवितव्येषु स्त्रीषु चाहारकर्मषु ।
अतृप्ता प्राणिनः सर्वे याता यास्यन्ति यान्ति च ।।
Sloka 14: क्षीयन्ते सर्वदानानि यज्ञहोमबलि क्रियाः ।
न क्षीयते पात्रदानम भयं सर्वदेहिनाम् ।।
Sloka 15: तृणं लघु तृणात्तूलं तूलादपि च याचकः ।
वायुना किं न जीतोऽसौ मामयं याचयिष्यति ।।
Sloka 16: वरं वनं व्याघ्रगजेन्द्रसेवितं
द्रुमालयं पक्वफलाम्बुसेवनं ।
तृणेषु शय्या शतजीर्णवल्कलं
न बन्धुमध्ये धनहीन जीवनम् ।।
Sloka 17: प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः ।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता ।।
Sloka 18: संसार कटु वृक्षस्य द्वे फले ह्यमृतोपमे ।
सुभाषितं च सुस्वादुः सङ्गति सज्जने जने ।।
Sloka 19: जन्मजन्मनि चाभ्यस्तं दानमध्ययनं तपः ।
तेनैवाभ्यासयोगेन देहि वाऽभ्यस्यते ।।
Sloka 20: पुस्तकेषु च या विद्या परहस्तेषु च यद्धनम् ।
उत्पन्नेषु च कार्येषु न सा विद्या न तद्धनम् ।।